होमसमाचारअन्ताराष्ट्रियत्रयोदशवर्षादनन्तरं साम्मुख्यशासनम्

त्रयोदशवर्षादनन्तरं साम्मुख्यशासनम्

टोरन्टो : क्यानडाराष्ट्रे २१ तमदिनाङ्कस्य मतदानस्य परिणामाः नैराश्यपूर्णः । दीर्घ १३ वर्षादनन्तरं पुनः अल्पसंख्यक सर्वकारः भविष्यति।
मुख्य शासकदलं (लिबरल) यद्यपि २०१५ तमवर्षे १७७ आसनानि प्राप्तं परं सम्प्रति १५७ आसनेषु सीमितं येन कारणेन प्रधानमन्त्री जस्तीन त्रुुुुदो साम्मुख्य संरचनायै उद्यतः। प्रमुखविपक्षं कन्जरवेटिवदल नेता एण्ड्रयू शियर: तु १२१ आसनोपरि विजयं प्राप्तवान्।
भारतीय वंशजः जगमित सिंहस्य एनडीपी दलं तु पराजितम्। क्यानडादेशे संसदि ३३८ आसनानां कृते मतदानं शान्तिपूर्णम् आसीत्।

(विश्वस्य वृत्तान्तः)

RELATED ARTICLES
- Advertisment -spot_img

Most Popular

error: Content is protected !!