मानवजीवने आत्मविश्वासस्य प्रमुखी भूमिका वर्तते। अस्य कारणात् मानवस्य विशिष्टा भूमिका भवति। किमर्थमित्युक्ते स्वकीय जीवने काठिन्यादि निर्णयानां क्षमता केवलं मानवेव वर्तते। येन प्रकारणेन मानवः स्वीय जीवनं सरलं व्यवस्थितञ्च रूपेण जीवितुं शक्नोति। मानवः यदा साफल्यं प्राप्नोति तदानीमेव तस्य आत्मविश्वासरूपी शक्तेः प्रादुर्भावो जायते।
आत्मविश्वासमेका एतादृशी शक्तिरस्ति या प्रत्येकमपि मानवे विद्यते। परन्तु केचन जनाः सम्यक् प्रकारेण तस्याः प्रयोगं कुर्वन्ति तथा केचन तस्याः (आत्मविश्वासस्य) प्रयोगं न कुर्वन्ति। यथा- श्रीमद्भगवद्गीतायाः प्रथमोऽध्याये पञ्चचत्वारिंशत्तमे श्लोके अर्जुनस्य बौद्धिकं ह्रासं–मनस्योद्वेलितञ्च स्पष्टरुपेण दृश्यते-अहो बत महत्पापं कर्तुं व्यवसिता वयम्। यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः।।
वस्तुतः एषा स्थितिः अत्यधिकी दयनीया वर्तते।
यदा आत्मविश्वासे न्यूनता आगच्छति तदा संशयावश्यमस्वमेव समीपमागत्य दिक्भ्रमित करोति। अत्र स्पष्टं ज्ञायते यत् परिस्थित्यां स्वकीयं प्रभुत्वं स्थापयति तथा अर्जुनोऽपि स्वीयं भीतिः अनुभवति। एतादृशानि अनेकानि उदाहरणानि सन्ति । यथा- अस्माकं देशस्य प्रथम नागरिकः राष्ट्रपति महोदयस्य च प्रधानमन्त्री महोदयस्य समीपं निर्णयस्य क्षमता भवति एषा शक्तिः केवलमात्मविश्वासोऽपरि आधारिता वर्तते।
अस्य सन्दर्भे विद्यालयीयपरिवेशेऽपि अवलोक्यते यत कक्षायां चत्वारिंशत् छात्रेषु केवलं दश छात्राः आत्मविश्वासं पूर्णरुपेण प्राप्यते एवञ्च ते सर्वदा प्रतियोगितायामऽपि अग्रण्या भवन्ति। अस्य कारणमस्ति स्वकीयोऽपरि विश्वासं च अध्यापकानां विश्वासं विजयते। परन्तु अध्यापकान् स्वकीयं कर्तव्यं भवितव्यम् यत् सर्वान् छात्रान् आत्मविश्वासस्य निर्माणं कुर्यात्।
येन सम्यक प्रकारेण राष्ट्रस्य निर्माणं कर्तुं शक्यते। आत्मविश्वासरुपी शक्तिं अक्षुण्ण स्यात्। अतः ध्यातव्यं यत् अतिआत्मविश्वासोऽपि कदाऽपि न करणीयम्।
संस्कृते एक सुप्रसिद्ध उक्तिमस्ति-
अति रूपेण वै सीता चातिगर्वेण रावणः ।
अतिदानाद् बलिर्बद्धो ह्यति सर्वत्र वर्जयेत्।।
आत्मविश्वासरूपी जीवनं निर्माणं कृत्वा सम्यक् कार्याणि करणीयानि। येन स्वकीय राष्ट्रस्य उन्नतिं भविष्यति।
-देवेश शर्मा
शोधच्छात्रः (शिक्षाशास्त्रम्), योगाचार्यः
श्रीलालबहादुरशास्त्रीराष्ट्रिय संस्कृत विद्यापीठम्,
नव-देहली, भारत
साभार : विश्वस्य वृत्तान्त: