होमसमाचारसंस्कृतं केवलं कर्मकाण्डस्यैव भाषा नास्ति

संस्कृत भाषा विश्वस्य उपलब्धासु भाषासु सर्वप्राचीनतमा भाषा अस्ति। विश्वस्य आदिमो ग्रन्थः ऋग्वेदोऽपि अस्यामेव भाषायामस्ति। भाषेयं अनेकाषां भाषाणां जननी मता।
केचन चिन्तयन्ति यत् संस्कृतं केवलं कर्मकाण्डस्य एव भाषा अस्ति अथवा अस्यां भाषायां केवलं धार्मिकं साहित्यमेव वर्तते। एषा धारणा समीचीना नास्ति।
संस्कृतभाषायाः केवलं पञ्चप्रतिशतांशः एव अस्ति यत्र धार्मिकं साहित्यं वर्तते। तदतिरिक्तं अस्याः भाषायाः नवतिः प्रतिशतादप्यधिकं विषयमस्ति यत्र वास्तुशास्त्रं, रसायनशास्त्रं, खगोलविज्ञानं, विमानशास्त्रं, चिकित्साशास्त्रं, आयुर्वेदादयश्च बहवः विषयाः सन्ति।
कौटिल्यविरचितं अर्थशास्त्रं जगति प्रसिद्धमस्ति। वर्तमानसमये एतादृशः बहवः विषयाः सन्ति ये मूलतः तु संस्कृतभाषायामेव आसन् परन्त्वधुना अन्यभाषासु अनुवादं कृत्वा पाठ्यन्ते।
भाषेयं अतीव वैज्ञानिकी। अस्यां भाषायां यत् पदं यथा लिख्यते तथैव तस्योच्चारणं भवति। अतः केचन कथयनत यत् इयं भाषा सङ्गणकस्य कृते सर्वोत्तमा भाषा अस्ति।

-शिवकुमारः
संस्कृत-अध्यापकः
राजकीय वरिष्ठ माध्यमिक पाठशाला
हिमाचल प्रदेशः
भारत:

RELATED ARTICLES
- Advertisment -spot_img

Most Popular