नवदेहली : दीर्घकालात् विवादित प्रकरणोपरि ऐतिहासिक निर्णय प्रकाश्य पञ्चसदस्यीयं खण्डपीठं सूचितवान् यत् अयोध्यानगरे मुस्लिम सम्प्रदायस्य कृते अन्यत्र मस्जिद निर्माणं भविष्यति। पञ्चएकड विशालक्षेत्र केन्द्रस्य अथवा राज्यस्य सर्वकारः दास्यति।
निर्मोही अखडा पक्षतः याचिकापत्रं तिरस्कृत्य न्यायालयेन सूचितं यत् विवादित क्षेत्रोपरि हिन्दूपक्षतः भव्यं राममन्दिरं भवेत् । मासत्रयमध्ये नेतृत्वे विशेष पर्यवेक्षक प्राधिकरण स्थापनीयम् । न्यायालयस्य निर्णयात् प्राक् अजमेर शरीफ दरगाहः अपि स्पष्टीकरणं दत्तवान् यत् निर्णयेन न कस्य वर्गस्य हानिः अपितु समग्रे राष्ट्रे शान्तिमयं वातावरणं प्रवर्तनीयम्।
अयोध्याप्रकरणे सतर्कता
अयोध्यानगरे मस्जिद मन्दिरयोः विवादोपरि अन्तिमः निर्णयः आगमनात् प्राक् केन्द्रीयगृहमन्त्रालयः सतर्कतां धारयति। गतदिने सार्धदशवादने पञ्चसदस्याः ऐतिहासिक निर्णयं प्रकाशितवन्तः। सम्भाव्यहिंसायाः निराकरणाय सम्पूर्ण उत्तरप्रदेशे शैक्षणिककार्यक्रमाः अपसारिताः।
(विश्वस्य वृत्तान्त:)