भारतसर्वकारः नागरिकता संहिताधिनियमम् उत्तमम् अस्ति इति कथयति। विपक्षीदलानि तु अस्य विरोधम् कुर्वन्ति।
उत्तरप्रदेशे हिंसात्मकम् अभियानं प्रवरं अभूत्
बुलन्दशहरम् : केन्द्रसर्वकारस्य नागरिकता संहिताधिनियमस्य प्रणयनात् प्राक् राष्ट्रियस्तरे प्रबलं विरोधं भवति। स्थाने स्थाने अग्निसंयोगत्वात् सार्वजनिकसम्पत्तिः नाशिताः। भाजपाशासितेषु कर्णाटक-असम-मेघालय-त्रिपुरा-उत्तरप्रदेशेषु च जनजीवनं ध्वस्तम्। प्रशासनेन १४४ नियमस्य प्रणयनं कृतम्। प्रहरीबलोपरि गुजरातप्रदेशे प्रस्तरक्षेपणकाले अत्र बुलन्द शहरस्य दशा न भिन्ना। समाजवादीपार्टीसमर्थकाः अर्धनग्न परिधानहीनाः सुरक्षाकर्मिभिः सह विवादरताः। सम्भवलनगरे महामार्गाः च अवरुद्धाः सन्ति। मुख्यमन्त्री योगी आदित्यनाथः विचलितः प्रतीयते।
गुर्जर राज्ये अन्तर्जालीयप्रबन्धनोपरि नियन्त्रणम्
बडोदरा : नागरिकतानियमस्य तीव्र विरोधकाले अहमदाबाद नगरे अनेके सुरक्षासेवकाः प्रस्थराघातेन आगताः।
संस्कारनगरी बडोदरा अपि भीषणसमस्याम् अनुभूयते स्म। सम्पूर्ण राज्ये सुरक्षाव्यवस्था अनियन्त्रिता न भवतु इत्यर्थे २०-२१-२२ दिनांकेषु सर्वत्र आन्तर्जालसुविधा प्रत्याहृता आसीत्। एतदुपरि अतिरिक्त महानिरीक्षकाय पूर्णाधिकारः सर्वकारेण प्रदत्तः। राज्यस्य नगरेषु अथवा ग्रामीणक्षेत्रेषु विवादितदृश्यैः जनमानसं कुत्सितं न करणीयं मत्वा राज्यशासनेन एतादृशः निर्णयः स्वीकृतः। सम्भावना इयं यत्र गुजरात राज्ये अपि सुरक्षादशा विकृता स्यात्।
नागरिकतानियमोपरि नीतीशकुमारस्य मौनत्वम्
पटना : केन्द्रसर्वकारेण नागरिकता संहितानियमस्य प्रणयनार्थे प्रयासः आरब्धः। भाजपा दलस्य नीतिनां विरुद्धे राष्ट्रियस्तरे विनाशलीला भवति। असमराज्यात् आरभ्य गुजरातस्य अहमदाबादपर्यन्तम् भाजपाशासितेषु प्रदेशेषु सर्वकारस्य अपयशः वर्धते। केन्द्रसर्वकारस्य समर्थकदलेन (संयुक्त जनतादलेन) एवं मुख्यमन्त्रिणा नीतीशकुमारेण घटनायाः उपरि किमपि नोक्तम्। राज्ये नागरिकतानियमोपरि सर्वकारस्य मनोरथं किम् इति अस्पष्टम्। नीतीशस्य सर्वकारस्य न केनापि मन्त्रिणा किमपि सूचितं येन नागरिकाः असन्तोषं प्रकटयन्ति।
नागरिकतासंशोधननियमोपरि पाकिस्तानस्य स्पष्टीकरणम्
इस्लामाबाद। अमित शाहस्य नेतृत्वे संसदि यद्यपि संशोधनविधेयकोपरि संख्याबलेन सहमतिः प्रकाशिता परं पाकिस्तानराष्ट्रस्य विदेशमन्त्रालयेन प्रतीपात्मकं स्पष्टीकरणं प्रकाशितम्।
बंगदेशः, अफगानिस्तानं तथा पाकिस्तानमिति त्रिषु यवनदेशेषु अल्पसंख्यकानां कृते सुरक्षाप्रदानाय अमित शाहस्य आन्तरिकता शंकास्पदा मन्यते। यतो हि पाकिस्तानस्य निवसतां हिन्दूनां संख्या सततं वर्धिता। मन्त्रालये न सूचितं यत् १९६१ ख्रीष्टाब्दे पाकिस्तानमध्ये अल्पसंख्यक वर्गस्य जनसंख्या यत्र २.९६ प्रतिशतमासीत् परं सम्प्रति १९९८ तमवर्षपर्यन्तं सा संख्या ३.७१ प्रतिशत पर्यन्तं वर्धिता। अतः भारतेन यादृशं मिथ्यातथ्यम् आधृत्य संशोधननियमः प्रणीतः तस्य नियमस्य मौलिकता नास्ति।
एषः विरोधः नीतिनाम् आदर्शनां गणहननम् – स्वरा
चलचित्रजगतः प्रख्याता: महानुभावा: एवं विशिष्ट शिक्षाशास्त्रिणः नागरिकता अधिनियमस्य तीव्रं विरोधं कुर्वन्ति। गतरात्रे स्वरा भास्वरः उक्तवती यत् गणतान्त्रिके देशे स्वरोत्तोलनं सर्वथा मान्यम्।
शान्तिस्थापनाय असम मुख्यमन्त्रिणा मौनपदयात्रा
नलवाडी। असमप्रदेशे दशा नियन्त्रिता भवति। उपद्रवस्य निरोधानेन सह जनजीवन सामान्यं भवति। मुख्यमन्त्री सोनवालः, अर्थमन्त्री हिमन्त विश्वसरमा, अन्ये च भाजपा नेतारः प्रातःकाले मौनत्वं धृत्वा पदयात्रां कृतवन्तः।
असमछात्रसंगठनेन यद्यपि अस्याभियानस्य पुनः विरोधः प्रदर्शितः तथापि मन्त्रिणः भावेश कालिता, रञ्जीत दासः, चन्द्रमोहन पटोवारी, सांसदः विश्वजित दायीमारी, सर्वेभ्यः प्रार्थितवान् यत् सुरक्षा दलस्य सहयोगेन असमराज्यस्य विकासः सम्भवः। राज्यस्य संस्कृते अस्मितायाः संरक्षणाय, संवर्धनाय राज्यसर्वकारः संकल्पबद्धः अस्ति।
(विश्वस्य वृत्तान्तः)