कस्मिंश्चिद् गहनारण्ये कश्चिद् मनुष्यो भ्रमन् तदभिमुखमायान्तं विशालकायं वन्यहस्तिनम् अपश्यत्। तेन भीतः तस्मादात्मानं रक्षितुं स तस्मिन् अरण्ये धावितुं प्रारभत। क्षणानन्तरं स कूपमेकम् अपश्यत्। ततः स निकटस्थस्यैकस्य वटवृक्षस्य शाखामवलम्ब्य कूपस्यान्तः प्रवेष्टुं प्रायतत। कूपे जलं नासीत्। किन्तु भयङ्कराः विषधराः सर्पाः तत्र फूत्कुर्वन्ति स्म।
इदानीं कूपस्यान्तः प्रवेशोऽपि असम्भवः। एतावता कालेन तम् मनुष्यम् अनुसरन् स वन्यहस्ती तत्र आगत्य अन्तः प्रविष्टं मनुष्यं दृष्ट्वा स्वशुण्डेन वटवृक्षं क्षोभयितुं प्रारभत। तदा तां शाखां कर्तयन्तं श्वेतमूषकं कृष्णमूषकं च दृष्ट्वा सः मनुष्यः अतीव भीतोऽभवत्। अस्मिन्नेव समये तस्याः शाखायाः उपरिष्टात् मधुकोषात् स्रवन्तः मधुबिन्दवः तन्मनुष्यस्य मुखे अपतन्। मधुस्वादेन मोहितः स इदानीं पारिपार्श्विकं सर्वं विस्मृत्य केवलं मध्वास्वादे निरतः।
संसारोऽयम् अज्ञातं गहनारण्यं यत्र मनुष्यः लक्ष्यहीनं भ्रमति। कालरूपी वन्यहस्ती तम् आक्रमितुं सततं प्रयत्नपरः। वटवृक्षस्य शाखा मनुष्यस्य आयूरेखायाः प्रतीकभूता यां प्रतिदिनं श्वेताश्वेतमूषकवत् दिवारात्रं कर्तयति। कूपस्थाः भयङ्कराः सर्पाः संसारस्य सर्वविधानाम् आपदां च प्रतीकभूताः। किन्तु मधुबिन्दुसदृशाभिः सांसारिक-विषयवासनाभिः भ्रान्तः मनुष्यः सांसारिक-सुखेषु एव निमग्नः।
-सम्पदानन्दमिश्रः