मदीय-ग्रामकस्य ताम् कथाम् वदामि साम्प्रतम्
तथा लिखामि ते पुरस्य लक्षणम् सवर्णनम् ।
गदामि ते न रोचते कथन्नु ग्रामसुन्दरम्
सखेऽधुना निशम्यताम् यथार्थमेव वच्म्यहम् ।।१।।
निसर्गसुन्दरा: जना: सदा वसन्ति ग्रामके
निसर्गवच्छुभम् समाचरन्ति तेऽत्र ग्रामके ।
समादरोऽस्ति मानवस्य तत्र सर्वथा सखे!
तथापि तन्न पौरवासिभि: कदापि श्लाघ्यते ?।।२।।
मनोविमोहिका भवेत् पुरेऽतिचाकचिक्यता
भवन्तु वाहनानि नूतनानि वा धनाढ्यता ।
विपण्यवृत्तिकै: जनै: समर्ज्यते विलासिता
गतास्ति शोचनीयतां परम् पुरे मनुष्यता ।।३।।
जना: पुरे त्वटन्ति वाटिकासु सूर्यवासरे
न चेन्मिलन्ति पौरवासिनस्तु चित्रमन्दिरे ।
क्लबेषु मद्य-पान-मत्त-नर्तनम् विधीयते
मुखस्य मण्डनाय वै न किम् च तै: विलेप्यते? ।।४।।
भ्रमन्ति कृष्यभूमिगा: मदीय-ग्रामकास्समे
मिलन्ति सादरम् समे हसन्ति ते गृहाङ्गणे ।
गृहेषु दुग्ध-तक्र-पान-पुष्टताम् प्रयान्ति ते
विनैव मण्डनम् भृशम् भवन्ति सुन्दराश्च ते ।।५।।
व्ययम् विधाय यान्ति रे! मनोऽनुरञ्जनाय ते
समुच्च-गोल-चक्र-दोलनासु दोलयन्ति ते ।
परन्तु ग्रामका: जना: व्ययम् विनैव रञ्जनम्
वट-प्ररोह-दोलकेन चाप्नुवन्ति सन्ततम् ।।६।।
फलानि पौरवासिनो नयन्ति रूप्यकैश्च ते
विनैव रूप्यकम् द्रुमाच्च ग्रामकै: सुलभ्यते ।
पुरेऽस्ति वायुदूषणम् जलञ्च दूषितम् तथा
विशुद्धवायुना जलेन भूषिताश्च ग्रामका: ।।७।।
धरापि शस्य-श्यामला विराजतेऽत्र ग्रामके
रसायनै: प्रदूषितास्ति धूमकल्मषा पुरे ।
पुरस्य वासिन: स्ववाहनै: प्रयान्ति सत्वरम्
न ते विचिन्तयन्ति तेन नश्यते गतेर्बलम् ।।८।।
मदीय-ग्राम-जीवनम् सदैव धार्मिकम् शुभम्
मनांसि निर्मलानि निश्छलानि तत्र बुध्यताम् ।
परम् पुरे न हार्दभावना जनेषु दृश्यते
पुरेऽस्ति लोकधारणा धनम् हि जीवनम् सखे! ।।९।।
मदान्धबुद्धिरन्विता: चलन्ति मानवा: पुरे
सुखाय लोकशोषणे रता: भवन्ति ते पुरे ।
विपत्ति-सिन्धु-मज्जितेषु भावना न दर्श्यते
सुखाय गच्छतात् पुरम् कथम् गदानि हे सखे! ।।१०।।
-भट्टराईयुवराज:
(नवदेहली, भारत)